________________ (179) योद्धृप्रयोजनाद् युद्धे / 6 / 2 / 113 / योद्धर्थात् प्रयोजनार्थाच्च प्रथमान्ताद् षष्ठयर्थे युद्धे यथाविहितं प्रत्ययो भवति / विद्याधरा योद्धारो यस्य युद्धस्य तद् युद्धं वैद्याधरम्, एवं सौभद्रम् / ... भावघनोऽस्यां णः / 6 / 2 / 114 / भावे घनन्तात् प्रथमान्तादस्यामित्यर्थे णो भवति / प्रकृष्टः पातो यस्यां सा प्रपाता तिथिः। श्येनंपातातैलंपातेति तु निपात्यौ' श्येनानां पातो यस्यां तिथौ क्रियायां भूमौ क्रीडायां वा सा श्येनंपाता तिथिः भूमिः क्रिया क्रीडा वा, एवं तैलम्पाता। प्रहरणात क्रीडायां णः / 6 / 2 / 116 / . प्रथमान्तात् प्रहरणार्थादस्यामिति क्रीडायां णो भवति / दण्डः प्रहरणं यस्यां क्रीडायां सा दाण्डा क्रिया / विकारे / 6 / 2 / 30 / षष्ठयन्ताद् विकारे यथाविहितं प्रत्ययो भवति / सुवर्णस्य विकारः सौवर्णमङ्गुलीयम् / अश्मनां विकार आश्मनः, आश्मः / प्राण्यौपधिक्षेभ्योऽवयवे च / 6 / 2 / 31 / षष्ठयन्तेभ्यः प्राणिवाचिभ्य औषधिवाचिभ्यो वृक्षवाचिभ्यश्च विकारेऽवयवे चार्थे यथाविहितं प्रत्ययो भवति / कपोतस्य विकारोऽवयवो वा कापोतं सक्थि मांसंवा / दूर्वाया विकारोऽवयवो वा. दौर्व भस्म काण्डं वा / एवं बैरवम् /