________________ (174) मानुष्यकम् / राजकम् / राजन्यकम् / राजपुत्रकम् / 'केदारात् ण्योऽकनिकणौ च वाच्यौर कैदार्य,कैदारकम् , कैदारिकम् / 'कवकि हस्तिभ्यामचित्तवाचिनश्चकण वाच्यः / कावचिकम् / हास्तिकम् / अपूपानां समूह आपूपिकम् / शाष्कुलिकम् / 'अनपूर्वाद धेनो रिकण वक्तव्यः धेनूनां समूहः- धेनु+इकण इति स्थिते / ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्।७।४।७१ ऋवर्णोवर्णान्ताभ्यां दोस इसुसन्ताभ्यां शश्वदकस्माद्वात् तान्ताभ्यां च परस्येकस्थस्येतो लुग् भवति / धैनुकम् / ब्राह्मणमाणववाडवाद् यः / 6 / 2 / 16 / एभ्यः समूहे यो भवति / ब्राह्मणानां समूहो ब्राह्मण्यम् / एवं माणव्यं, वाडव्यम्। 'गणिकायाण्यो वाच्यः' गणिकानां समूहो गाणिक्यम् / 'पाशादिशब्दाद् गवादेश्व ल्यो वक्तव्यः पाशानां समूहः पाश्या, तृणानां समूहस्तण्या, गवानां समूहो गव्या रथानां समूहो रथ्या, लकारः स्त्रीलिङ्गार्थः / ग्रामजनबन्धुगजसहायात् तत् / 6 / 2 / 28 / एभ्यः समूहे तल् भवति / ग्रामता / जनता / बन्धुता / गजता / सहायता / 'गोरथवाताद् यथासंख्यं त्रस्कटयलूलं वाच्यम्' गवां समूहः गोत्रा, रथकट्या, वातूलः / . 'श्वादीनामञ वाच्यः शूनां समूहः शौवम्, अह्नां समूहः आह्वम् / “पशुशब्दात् तु ड्वण वक्तव्यः पशूनां समूहः पार्श्वम्।