________________ (173) मास्यस्य स आश्वत्थिकः। चैत्री पौर्णमास्यस्य स चैत्रः, चैत्रिको मासोऽर्धमासो वा / एवं कार्तिकः, कार्तिकिकः / फाल्गुना, फाल्गुनिकः / श्रावणः, श्रावणिकः / देवता / 6 / 2 / 101 / - देवतार्थात् प्रथमान्तात् षष्ठयथें यथाविहितं प्रत्ययो भवति / जिनो देवताऽस्यासौ जैनः / शिवो देवताऽस्यासौ शैवः / एवं बौद्धः / श्रीदेवताऽस्य श्रायम् / 'शुक्रात् तु इयो वाच्यः' शुक्रो देवताऽस्य शुक्रियं हविः / 'शतरुद्रात्तु इय ईयश्च नित्यं, महेन्द्रातु वा वाच्यौ तरुद्रो देवताऽस्य शतरुद्रिय, शतरुद्रीयं हविः, महेन्द्रो देवताऽस्य महेन्द्रीयं माहेन्द्रम् / षष्ठ्याः समूहे / 6 / 2 / 9 / ... षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययो भवति / चषानां समूहः चाषम् / बकानां समूहो बाकम् / स्त्रीणां समूहः स्त्रैणम् / गवां समूहो गव्यम् / भिक्षाणां समूहो भैक्षम् / गर्भिणीनां समूहो गार्मिणम् / गोत्रोक्षवत्सोष्ट्रटद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् / 6 / 2 / 12 / ___ गोत्रप्रत्ययान्तादुक्षादेश्च षष्ठ्यन्तात् समूहेऽकञ् भवति / गर्गाणां समूहो गार्गकम् / औपगवानां समूह औपगवकम् / औक्षकम् / वात्सकम् / औष्ट्रकम् / वार्द्धकम् / आजकम् / औरभ्रकम् /