________________ (171) 'कालवाचिनः शब्दस्याप्रयोगे तु टुब् भवति' अद्य पुष्यः / . अद्य कृतिका / श्रवणाश्वत्थानाम्न्यः।६।२।८। : चन्द्रयुक्तात् श्रवणादश्वत्थात् टाप्रययान्ताद् युक्ते कालेऽर्थे संज्ञायामः भवति / श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिः श्रवणा रात्रिः / अश्वत्थेन चन्द्रयुक्तेन युक्तमहः आश्वत्थमहः / दृष्टे साम्नि नाम्नि / 6 / 2 / 133 / टाप्रत्ययान्ताद् दृष्टं सामेत्यर्थे यथाविहितं प्रत्ययो भवति / ऋञ्चेन दृष्टं साम क्रौञ्चं साम, अत्राण / कलिना दृष्टं साम कालेयम्, अत्रैयण् / तेन च्छन्ने रथे / 6 / 2 / 131 / तृतीयान्ताच्छन्ने रथेऽर्थे यथाविहितं प्रत्ययो भवति / वस्त्रेणच्छन्नः - वास्त्रो रथः / 'पाण्डुकम्बलात् तु इन् वाच्यः' पाण्डुकम्बलेन च्छन्नो रथ: पाण्डुकम्बली / - साऽस्य पौर्णमासी।६।२। 98 / / सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययो भवति, प्रथमान्तं चेत् पौर्णमासी। पौषी पौर्णमासी अस्य स पौषो मासोऽर्धमासो वा / आग्रहायण्यश्वत्थात् त्वत्रार्थे नित्यं, चैत्रीकार्तिकी-फाल्गुनी-श्रवणाभ्यस्तु विकल्पेनेका वक्तव्यः / आग्रहायणी पौर्णमास्यस्य स आग्राहायणिको मासः / अश्वत्था पौर्ण,