________________ . . रांगाट्टो रक्ते / 6 / 2 / 1 / - रज्यतेऽनेनेति रागः कुसुम्भादिः, तस्माद् रागविशेषवाचिनस्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्यया भवन्ति / कषायेण रक्तं वस्त्रं काषायम् / मञ्जिष्ठेन रक्तं माञ्जिष्ठम् / कुसुम्भेन रकं कौसुम्भम् / लाक्षारोचनादिकण् / 6 / 2 / 2 / तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे इकण भवति / लाक्षया रक्तं लाक्षिकं वस्त्रम् / रोचनेन रक्तं रौचनिकम् / नीलपीतादकम् / 6 / 2 / 4 / तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे यथासंख्यमको भवतः / नीलेन रक्तं नीलम् / पीतेन रक्तं पीतकम् / . उदितगुरोर्भाद् युक्तेऽब्दे / 6 / 2 / 5 / . __ उदितो गुरुर्वृहस्पतिर्यस्मिन् नक्षत्रे तदर्थाद् टान्ताद् युक्तेऽब्दरूपेऽर्थे यथाविहितं प्रत्ययो भवति / उदितगुरुणा पुष्येण युक्तं वर्ष पौषं वर्षम् / चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते / 6 / 2 / 6 / : ___ चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् टाप्रत्ययान्ताद् युक्ते कालेऽथे यथाविहितं प्रत्ययो भवति / चन्द्रयुक्तेन पुष्येण नक्षत्रेण युक्त महः पौषमहः / पौषी रात्री। माघ दिनम् / माघी रात्रिः।