________________ (170) भृग्वङ्गिरस्कुत्सवशिष्ठगोतमात्रेः। 6 / 1 / 128 / एभ्यो बहुगोत्रार्थस्य प्रत्ययस्य टुब् भवति, न तु स्त्रियाम् / भृगूणामपत्यानि भृगवः / अङ्गिरसः / कुत्साः। वशिष्ठाः / गोतमाः / अत्रयः / यूनि लुप् / 6 / 1 / 137 / यून्युत्पन्नप्रत्ययस्य प्राग् जितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुब् भवति, लुपि सत्यां यः प्राप्नोति स भवेद् / पाण्टाहृतस्यापत्यं पाण्टाहृतिः, तस्य युवापत्यं पाण्टाहृतः, तस्य च्छात्रा इति प्राग जितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णप्रत्ययस्य लुव जातस्ततः ' वृद्धेऽनः' इत्यनेनाञ् पाण्टाहृताः। पाण्टाहृति-मिमताभ्यामपत्यमाने ण आयनिञ् च वक्तव्यः / राष्ट्रक्षत्रियात् सरूपाद्राजापत्ये दिरञ् / 6 / 1 / 114 / ___ सरूपाभ्यां राष्ट्रक्षत्रियाभ्यां यथासंख्यं राजापत्येऽन् भवति स च द्रिः / विदेहानां राना अपत्यं वा वैदेहो बहुत्वे तु विदेहा राजानोऽपत्यानि वा / पुरुमगधकलिङ्गसूरमसाद्विस्वरादण् / 6 / 1 / 116 / राष्ट्रक्षत्रियार्थेभ्यः सरूपेभ्य एभ्यो द्विस्वरेभ्यश्चाण भवति / पुरोरपत्यं राजा वा पौरवः / मागधः / कालिङ्गः / सौरमसः / आङ्गः। इत्यपत्याधिकारः।