________________ ( 169) आभ्यां परस्य स्वसृशब्दस्य सस्य समासे षकारो भवति / . . . . जातौ राज्ञः। 6 / 1 / 92 / जातौ गम्यमानायां राज्ञोऽपत्येऽथे यो भवति / राज्ञोऽपत्यं राजन्यः क्षत्रिया जातिश्चेद् / राजनोऽन्यः / मनोर्याणौ पश्चान्तः / 6 / 1 / 94 / . मनुशब्दादपत्येऽर्थे याणौ प्रत्ययौ भवतः, जातौ गम्यायाम् / तत्प्रत्यययोगे पश्चान्तादेशः / मनोरपत्यं मानुष्यो मानुषो वा। कुत्सायां तु मनोरपत्यं मूढं माणवः / सम्राजः क्षत्रिय / 6 / 1 / 101 / अतः क्षत्रियेऽपत्ये न्यो भवति / साम्राज्यः क्षत्रियः। . सेनान्तकारुलक्ष्मणादिश्च / 6 / 1 / 102 / सेनान्तशब्दात् कार्वर्थशब्दाद् लक्ष्मणशब्दाचापत्येऽर्थे इन न्यश्च भवतः / हारिणिः, हारिषेण्यः / तान्तुवायिः, तान्तुवायः। लाक्ष्मणिः, लाक्ष्मण्यः / यबबोऽश्यापर्णान्तगोपवनादेः। 6 / 1 / 126 / यअन्तस्यानन्तस्य च बहुगोत्रार्थस्य यः प्रत्ययः तस्यात्रियां लुब् भवति / गर्गाणामपत्यानि गर्गाः / विदस्यापत्यानि विदाः / एकत्वे द्वित्वे तु लुपोऽभवनाद् गायः गाग्यौँ / वैदः वैदौ।