________________ (168) द्विस्वरादनद्याः / 6 / 1 / 71 / / नद्यर्थवनिताद् द्विस्वराद् ड्याप्त्यूङन्तादपत्य एयण भवति / पत्ताया अपत्यं दात्तेयः / नद्यर्थवर्जनात् सैप्रः, विधानबलात् पूर्वणापि न / 'शुभ्रादीनामेयण वाच्यः' शौभ्रेयः। कल्याणादेरिन् चान्तस्य / 6 / 1 / 77 / __ कल्याण इत्येवमादीनामपत्येऽर्थे एयणं अन्तस्य चेनादेशो भवति / केचित् कल्याणी इति शब्दं पठन्ति / कल्याणस्यापत्यं काल्याणिनेयः / सौभागिनेयः / दौर्भागिनेयः / बान्धकिनेयः / 'कुलटाशब्दस्य विकल्पेन वाच्यः' कोलटेयः / क्षुद्राभ्य एरण वा / 6 / 1 / 80 / _अङ्गहीना वाऽनियतपुरुषाः स्त्रियः क्षुद्रा इति कथ्यन्ते / क्षुद्रार्थेभ्यः स्त्रीभ्योऽपत्ये एरण् वा भवति / काणाया अपत्य काणेरः पक्षे काणेयः। दास्या अपत्यं दासेरः, दासेयो वा / 'भ्रातृशब्दाद् व्य ईयश्च स्वसृशब्दाच्चेयो वक्तव्यः' भ्रातृव्यः, भ्रात्रीयः। स्वतीयः / श्वशुराद् यः' श्वशुर्यः। मातृपित्रादे.यणीयणौ / 6 / 1 / 90 / * “मातृ-पितृशब्दाभ्यां परो यः स्वसशब्दस्तदन्तादपत्येऽर्थे डेयणीयणौ भवतः / मातृस्वसुरपत्यं मातृष्वज्ञेयः, मातृष्वतीयः / पैतृष्वस्त्रेयः, पैतृष्वतीयः। मातृपितुः स्वसुः / 2 / 3 / 18 /