________________ (167) ऋष्यादिवाचिभ्यो' नामभ्योऽपत्येऽम् - भवति / वशिष्ठस्यापत्यं वाशिष्ठः / वैश्वामित्रः / वसुदेवस्यापत्यं वासुदेवः। आनिरुद्धः / श्वफलकस्यापत्यं श्वाफलकः / सहदेवस्यापत्यं साहदेवः / नाकुलः। सङ्ख्यासंभद्राद् मातुर्मातुर्च / 6 / 1 / 66 / / संख्यावाचिनः शब्दात् संभद्राभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽर्थेऽण् भवति / मातुश्च मातुरादेशः / द्वयोर्मात्रोरपत्यं द्वैमातुरः / पाण्मातुरः / सांमातुरः / भाद्रमातुरः। कन्यात्रिवेण्याः कनीनत्रिवणं च / 6 / 1 / 62 / / आभ्यामपत्येऽण् यथासंख्यं च कनीनत्रिवणावादेशौ भवतः। कन्याया अपत्यं कानीनः / त्रिवेण्या अपत्यं त्रैवणः / . दितेश्चैयण् वा / 6 / 1 / 69 / दितिशब्दाद् मण्डूकशब्दाच्चापत्ये एयण वा भवति / दितेरपत्यं दैतेयः, दैत्यो वा / मण्डूकस्यापत्थं माण्डूकेयः, माण्डूकिर्वा। मण्डूकस्याणपि माण्डूकः / याप्त्यूङः / 6 / 1 / 70 / / .. ड्यन्तादाबन्तात् त्यन्तादूङन्ताच्चापत्ये एयण भवति / सुपा अपत्यं सौपर्णेयः / विनताया अपत्यं वैनतेयः / युवत्या अपत्यं यौवतेयः / कमण्डत्वा अपत्यं कामण्डलेयः / 'पीलासारखाम्यामणपि' पैलेयः, पैलः / साल्वेयः, साल्वः / ..