________________ ( 166) अत इन् / 6 / 1 / 31 / ... षष्ठ्यन्ताददन्तादपत्येऽथें इम् भवति / दाक्षिः / गर्गादेर्यञ् / 6 / 1 // 42 // एभ्योऽपत्ये वृद्धे यञ् भवति / गर्गस्य वृद्धापत्यं गाग्यः / वात्स्यः / जामदग्न्यः। धौम्यः / धानंजय्यः / 'विदादीनामन वाच्यो वृद्धेऽपत्ये विदस्य वृद्धापत्यं वैदः / नडादिभ्य आयनण् / 6 / 1 / 53 / / नड इत्यादिभ्यो वृद्धापत्ये आयनण् भवति / नाडायनः। चारायणः / वृद्धग्रहणादनन्तरापत्ये तु नाडिः, चारिः इत्यादिः। यबित्रः / 6 / 1154 / वृद्धेऽर्थे यौ यजिनौ तदन्ताद् युवापत्ये आयनण् भवति / .. वृद्धाद् यूनि / 6 / 1 / 30 / - युवापत्ये यः प्रत्ययः स वृद्धप्रत्ययान्ताद् भवति / गर्मस्य युवापत्यं गार्यायणः / वत्सस्य वात्स्यायनः / दक्षस्य दाक्षायणः। शिवादेरण् / 6 / 1 / 60 / शिवादिगणपठितादपत्येऽण् भवति / शैवः, प्रौष्ठः, चाण्ड : इत्यादिः / .. .. ऋषिवृष्ण्यन्धककुरुभ्यः / 6 / 1 / 61 / ऋषयः प्रसिद्धाः, वृष्णयः अन्धककुरवः इति च वंशाख्याः।।