________________ (165) लोम्नोऽपत्येषु / 6 / 1 / 23 / अस्मात् प्राजितीये बह्वपत्यार्थे अः भवति / एकत्वे द्वित्वे च बाहवादित्वादिञ् / उडुलोम्नोऽपत्यानि-उडुलोमाः / एकत्वे द्वित्वे च औडुलोमिः औडुलोमी। द्विगोरनपत्ये यस्वरादे बद्विः / 6 / 1 / 24 / ... अपस्यार्थादन्यत्र प्रागजितीयेऽर्थे विहितस्य द्विगोः परस्य यकारादेः स्वरादेश्च प्रत्ययस्य लुब् भवति, न तु द्विः। द्वयो रथयोर्वोढा द्विरथः ' रथाद् सादेश्च वोङ्गे' इति यः / पञ्चसु कपालेषु संस्कृतः पञ्चकपालः / द्विगोरितिकिम् - पूर्वस्यां शालायां भवःपौर्वशालः / यस्वरादेरिति किम् - पञ्चभ्यो गोभ्य आगतं पञ्चगुमयम् / .. न प्राजितीये स्वरे / 6 / 1 / 135 / गोत्रे उत्पन्नस्य प्रत्ययस्य बहुवचनेषु या लुन् वक्ष्यते सा प्राजितीयेऽर्थे यः स्वरादितद्धितो विधीय तस्मिन् विषये न भवति / गर्गाणां छात्रा गार्गीयाः / वात्सीयाः / तद्धितयस्वरेऽनाति / 2 / 4 / 92 / . व्यन्जनात् परस्यापत्यप्रत्ययसम्बन्धिनो यकारस्य तद्धिते यकारादावाकारव स्वरादौ च प्रत्यये परे लुग् भवति / गाग्ये साधुयिः / गर्गाणां समूहो गार्गकम् / यस्वर इति किम् - गार्यादागतं गायेमयम् / अनातीति किम् - गाायणः /