________________ (164) धनादेः पत्युः। 6 / 1 / 14 / .. धनादिगणपठिताच्छब्दात् परो यः पतिशब्दस्तदन्तात प्राजितीयेऽर्थेऽण् भवति / धनपतेरपत्यं तत्र भवो वा धानपतः / अश्वपतेः आश्वपतः / अनिदम्यणपवादे च दित्यदित्यादित्ययम पत्युत्तरपदा ज्यः / 6 / 1 / 15 / / दित्यादिशब्दात् पत्युत्तरपदाच्चेदमर्थवनिते प्राजितीयेऽर्थेऽपसद्यर्थमुपे गोऽगोऽपवादस्तद्विषये च यः भवति ! द्वितेपयं दैत्यः / अदितेरपत्यमादित्यः / आदित्यो देवता यस्य तद् आदित्ययम् / यमस्थापत्यं याम्यः। वृहस्पतिर्देवताऽस्य वार्हस्पत्यम् / इदमर्थवर्जनाद् आदित्यस्येदम्-आदितीयं मण्डलम् / ... कल्यग्नेरेयण् / 6 / 1 / 17 / आभ्यां प्राजितीये एयण् भवति / कलिदेवताऽस्य तत् कालेयम् / आग्नेयम् / उत्सादेरञ् / 6 / 1 / 19 / अस्मात् प्राजितीयेऽनिदम्यणपवादे चाञ् भवति / उत्सस्वापत्यम्-औत्सः / तरुण्या अपत्यम्-तारुणः / अ स्थाम्नः / 6 / 1 / 22 / स्थाम्नः प्राजितीये अः भवति / अश्वत्थामः। ..