________________ जीवदेव युवसझं वा भवति / गार्ग्यस्यापत्यं जीवद् गार्ग्यः गार्यायणो वा / वात्स्यः वात्स्यायनः / सञ्ज्ञा दुर्वा / 6 / 1 / 6 / हठाद् या सञ्ज्ञा सा दुसज्ञा वा भवति / चैत्रीयाः चैत्राः। त्यदादिः / 6 / 1 / 7 / / असौ दुसज्ञो भवति / ' दोरीयः / इति ईये त्वदीयः / तदीयः। प्राग् जितादण् / 6 / 1 / 13 / 'तेन जितजयद्दीव्यत्खनत्सु ' इत्येतस्मात् सूत्रात् प्राय बेपत्यादयोऽर्थास्तेष्वण वा भवत्यपवादविषयं मुक्त्वा / उपगोरपत्यम्-औपगवः / मञ्जिष्ठेन रक्तम्-माञ्जिष्ठम् / ___ उसोऽपत्ये / 6 / 1 / 28 / षष्ठयन्ताद् नाम्नोऽपत्येऽर्थे यथाविहितमणादयो भवन्ति / उपगु+अण् इति स्थिते ण इत्सन्ज्ञायां सत्यां. वृद्धिः स्वरेष्वादेणिति तद्धिते / 7 / 4 / 1 / / मिति णिति तद्धिते परे प्रकृतेः प्रथमस्वरस्य वृद्धिर्भवति / इत्यादिस्वरस्य वृद्धौ औपगु+अ इति स्थिते अस्वयंभुवोऽन् / 7 / 4 / 70 / स्वयंभूवर्जस्योवर्णान्तस्यापदस्य तद्धिते परेऽव् भवति / अवादेशे औपगवः / . ...: