________________ (162) अथ तद्धितार्थों निरूप्यते। तद्धितोऽणादिः / 6 / 1 / 1 / इतो वक्ष्यमाणा अणादिप्रत्ययास्तद्धितसञ्जका भवन्ति / पौत्रादि वृद्धम् / 6 / 1 / 2 / पौत्रप्रभृति अपत्यं वृद्धम् / अपत्यवतः परमप्रकृतेर्यत् पौत्राद्यपत्यं तद् वृद्धसञ्जकं भवति / गर्गस्यापत्यं पौत्रादिः गार्ग्यः / नडस्यापत्यं पौत्रादिः नाडायनः / पौत्रादीति किम्-गर्गस्यानन्तरापत्यं गार्गिः / / पंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा / 6 / 1 / 3 / वंश्यः पित्रादिः, ज्यायान् भ्राता वयोधिक इत्यर्थः, स चैकपितृकः एकमातृको वा, प्रपौत्रो मूलप्रकृतेश्चतुर्थः / वंश्ये ज्येष्ठभ्रातरि च जीवति सति स्त्रीवर्जितं प्रपौत्राद्यपत्यं युवसंज्ञकं भवति। गाय॑स्य युवाऽपत्यं गार्या यणः / वंश्यन्यायोभात्रोरितिकिम्गायः / जीवतीति किम्-मृते गार्ग्यः / अस्त्रीतिकिम्-स्त्री गार्गी। सपिण्डे वयास्थानाधिके जीवद् वा / 6 / 1 / 4 / __ ययोः सप्तम एकः पुरुषस्तौ मिथः सपिण्डौ स्तः। वयो यौवनादि / स्थानं पिता पुत्रादि च / द्वाभ्यां वयःस्थानाभ्यामधिके सपिण्डे जीवति सति मूलप्रकृतेः स्त्रीवयं प्रपौत्राद्यपत्यं