________________ बालः / 'सुपूर्वस्य हृदयस्य बहुव्रीहौ मित्रेऽर्थे दुःपूर्वस्य चामित्रे हृद् निपात्यः / सुहृद् मित्रम् / दुहृदमित्रः / इनः कच् / 7 / 3 / 170 / इन्नन्ताद् बहुव्रीहेः स्वयर्थात् कच् भवति / बहवो दण्डिनो यस्यां सा बहुदण्डिका सेना / 'ऋकारान्ताद् नित्यदिदन्ताच्च बहुवीहेः कच् वक्तव्यः' / बहुकर्तृकः / बहुनदीकः / शेषाद् वा / 7 / 3 / 175 / / उक्तातिरिक्ताद बहुव्रीहेः कच वा भवति / बहुखट्वकः. बहुखट्वः / ईयसोः। 7 / 3 / 177 / ईयस्वन्ताद् बहुव्रीहेः कच न भवति / बहुश्रेयसी साध्वी। 'षोडश, षोढा, षड्ढा, षोडत् इत्यादयस्तु निपातनाद्। यत्र नित्यसमासस्तत्रास्वपदविग्रहों विधेयो यथा स्त्रियामिति अधिस्त्रि / इति समासप्रकरणं समाप्तम् / '..