________________ (160) रेफादिमतोऽकारान्तात् पूर्वपदात् परस्याह्नस्य नो ण भवति / पराह्नः / अक्ष्णोऽप्राण्यङ्गे / 7 / 3 / 85 / अप्राण्यङ्गार्थादक्ष्यन्ताददन्तो भवति / लवणाक्षम् / शकटाक्षम्। संख्यातकपुण्यवर्षादीर्घाच रात्ररत् / 7 / 3 / 119 / - एभ्यः सर्वांशादेश्च .परों यो रात्रिशब्दस्तदन्तात् तत्पुरुषाद् भवति / संख्यातरात्रः / एकरात्रः / पुण्यरात्रः / वर्षारात्रः / दीर्वरात्रः / सर्वरात्रः / पूर्वरात्रः / द्विरात्रः / अतिरात्रः / नबव्ययात् संख्याया डः / 7 / 3 / 123 / _आभ्यां परो यः संख्यावाची शब्दस्तदन्तात् तत्पुरुषाद् डो भवति / अदशाः / निस्त्रिंशः / 'संख्याऽव्ययाभ्यां परो योऽङ्गुलिस्तदन्तात् तत्पुरुषाद् डो वाच्यः' / द्वयङ्गुलम्, निरगुलम् / नब्-सु-व्युप-त्रेश्चतुरः / 7 / 3 / 131 / एभ्यः परो यश्चतुःशब्दस्तदन्ताद् बहुव्रीहेरब् भवति / अचतुः / सुचतुरः / विचतुरः / उपचतुराः / त्रिचतुराः / वयसि दन्तस्य दतः / 7 / 3 / 151 / सुसंख्यापूर्वस्य दन्तस्य बहुव्रीहौ दतृ आदेशो भवति, वयसि गम्ये / शोभना दन्ता यस्य स सुदन कुमारः / द्विदना