________________ (177) - राष्ट्रेऽनङ्गादिभ्यः / 6 / 2 / 65 / अङ्गादिवर्जात् षष्ठयन्ताद्राष्ट्रेऽर्थेऽण् भवति / शिवस्य राष्ट्र शैवम् / वीरस्य राष्ट्रं वैरम् / कुमारपालस्य राष्ट्रं कौमारपालम् / भारतम् / 'राजन्यादीनामकञ् वाच्यः' राजन्यानां राष्ट्र राजन्यकम् / निवासादूरभवे इति देशे नाम्नि / 6 / 2 / 69 / षष्ठयन्ताद नाम्नो निवासादरभवयोर्यथाविहितं प्रत्ययो भवति तदन्तं नाम चेदं देशनाम स्यात् / शिबीनां निवासः शैवं पुरम् / विदिशाया अदूरभवं वैदिक्षं नगरम् / ... तदत्रास्ति / 6 / 2 / 70 / तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति / प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम / उदुम्बराः सन्ति यस्मिन्-औदुम्बरो देशः / .. तेन निर्वृत्ते च / 6 / 2 / 71 / / - तृतीयान्ताद् निर्वृत्तेऽये यथाविहितं प्रत्ययो भवति, देशनाम्नि / कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी। .. __मध्यादेः / 62 / 73 / एभ्यो निवासाद्यथचतुष्के यथायोगं मतुः भवति, देशनाम्नि / मधुमान् / शिखायाः। 62 / 76 / . 12