________________ - अकारान्ताद् व्यञ्जनान्ताच्च परस्य सप्तम्याः कृदन्त उत्तरप्रदे परे तत्पुरुष समासे लुब् न भवति / स्तम्बेरमः / कर्णेजपः / मस्मनिहुतम् / अपो य-योनि-मति-चरे / 3 / 2 / 28 / __ अस्मात् परस्य सप्तम्या यप्रत्यये योनि-मति-चरेषु चोत्तरपदेषु लुब् न भवति। अप्सु भवः असध्यः / अप्सुयोनिः / अप्सु. मतिः / अप्सुचरः / 'मध्यादन्ताच्च सप्तम्या गुरौ परे लुग्न वाच्यः' मध्येगुरुः / अन्तेगुरुः / / अमूर्धमस्तकात स्वाङ्गादकामे / 3 / 2 / 22 / मूर्ध-मस्तकवर्जितात् स्वाङ्गवाचिनोऽद्व्यन्जनात् परस्याः सप्तम्याः कामवर्जित उत्तरपदे परे लुब् न स्यात् / उरसिलोम / शिरसिशिखः / उदरेमणिः / कण्ठेकालः। पश्यद्-वाग्-दिशो हर-युक्ति-दण्डे / 3 / 2 / 32 / - हर-युक्ति-दण्डे उत्तरपदे एभ्यः परस्या षष्ठया लुब् न भवति / पश्यतोहरः / वाचोयुक्तिः / दिशोदण्डः / 'देवानांप्रिय इत्यलुब् निपात्यः / ऋदुदित्तरतमरूपकल्पब्रुवचेलगोत्रमतहते वा इस्त्रश्च / 3 / 2 / 63 / परतः स्त्रीलिङ्ग ऋद्भुदित् शब्दस्तरादिप्रत्यये ब्रुवादावुत्तरपदे च परे ह्रस्वान्तः पुंवच्च वा भवति / पचन्तितरा, पचत्तरा, पचन्ती