________________ (155) बाऽऽमादेशो भवति / एते च परस्परादयः स्वमावादेकत्वपुंस्ववृत्तयः कर्मव्यतिहारविषयाः / अन्योऽन्यमेकक्रियाकरणं कर्मव्यतिहारः / इमे सख्यौ कुले वा परस्परां परस्परं वा भोजयतः / इमे सख्यौ कुले वाऽन्योऽन्यमन्योऽन्यां वा भोजयतः ।आमिः सखीमिः इतरेतरां वा इतरेतरेण भोज्यते इत्यादि। अथालुपसमासःअसत्त्वे डसेः / 3 / 2 / 10 / असत्त्वे विहितो यो ङसिस्तस्योत्तरपदे परे लुब न भवति / स्तोकान्मुक्तः / कृच्छ्रान्मुक्तः / ओजोऽःसहोऽम्भस्तमस्तपसष्टः / 3 / 2 / 12 / - एभ्यः परस्य तृतीयैकवचनस्य टाप्रत्ययस्य लुब् न भवति / ओजसाकृतम् / अञ्जसाकृतम् / सहसाकृतम् / अम्भसाकृतम्। तमसाकृतम् / तपसाकृतम् / 'पुंसोऽनुजे, जनुषोऽन्धे, आत्मनश्च पूरणप्रत्ययान्ते उत्तरपदे टाप्रत्ययस्य लुग् न वाच्यः' / पुंसाऽनुजः / ननुषाऽन्धः / आत्मनाद्वितीयः / परात्मभ्यां ङः / 3 / 2 / 17 / आभ्यां परस्य चतुर्येकवचनस्योत्तरपदे परे सज्ञायां लुब् न भवति / परस्मैपदम् / आत्मनेपदम् / तत्पुरुषे कृति / 3 / 2 / 20 /