________________ M . विद्यायोनिसम्बन्धनिमित्तानामृकारान्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तरपदे परे पूर्वपदस्याऽऽद् भवति / होता च पोता च होतापोतारौ / माता च पिता च मातापितरौ / याताननान्दरो। पुत्रशब्दे परेऽपि द्वन्द्वे ऋकारस्याकारो भवति पितापुत्रौ / वेदसहश्रुतावायुदेवतानाम् / 3 / 2 / 41 / - एषां द्वन्द्वे पूर्वपदस्य आ भवति उत्तरपदे परे / येषां साहचर्य लोके प्रसिद्धं वेदे च सहभावेन निर्देशः कृतस्ते वेदसहश्रुताः। इन्द्रासोमौ / इन्द्रावृहस्पती / वायुवर्जनाद् वाय्वनी / - ईषोमवरुणेऽनेः। 3 / 2 / 42 / अग्निशब्दस्येकारादेशो भवति षोसे वरुणे च परे, वेदसहश्रुतावायुदेवतानां द्वन्द्वे / अग्नीषोमौ / अग्नीवरुणौ / दिवो द्यावा / 3 / 2 / 44 / देवताद्वन्दे उत्तरपदे परे दिवो द्यावादेशो भवति / द्यौश्च भूमिश्च द्यावाभूमी। 'पृथिवीशब्दे उत्तरपदे दिवस-दिवः इत्येतावादेशी वा भवतः दिवस्पृथिव्यौ, दिवापृथिव्यौ, द्यावापृथिव्यौ / 'मातृपित्रोर्द्वन्द्वे ऋकारस्यार वोभयोः पदयोर्निपात्यः' मातरपितस्योः, मातापित्रोः। परस्परान्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि / 3 / 2 / 1 / अपुंसि प्रयुज्यमानानां परस्परादीनां सम्बन्धिनः स्यादेः स्थाने