________________ (193) पाव्याः / पात्राहशूद्रवाचिनां स्पैर्द्वन्द्व एकार्यों भवति / तक्षायस्कारम् / रजकतन्तुवायम् / एकवद्भावे नपुंसकत्वं यदुक्तम्" द्वन्द्वैकत्वाऽव्ययीभावौ क्रियाव्ययविशेषणे। .. कृत्याः क्तानाः खलनिनः भावे आ त्वात् समूहनः " // 1 // द्वन्द्वैकत्वम् - सुखदुःखम् / अव्ययीभावः- दण्डादण्डि / क्रियाया अन्ययस्य च यद् विशेषणं तद्वाचि नाम-साधु पचति प्राग्रमणीयम्। भावे विहिताः कृत्याः, कप्रत्ययः, आनेति कान- आमशौ, अनडपि इत्येते प्रत्ययाः तदन्तं च-चैत्रेण कार्य कर्तव्यं कृतं पेचानं फ्व्य. मानं लवनं स्थानं इत्यादयः / खलप्रत्ययान्तम्- दुराढ्यंभवं मैत्रेण। जिन् सांराविणम् / 'भावे त्वतल् ' इत्यारभ्य 'ब्राह्मणस्त्वः / इति त्वमभिव्याप्य ये प्रत्ययास्तदन्तं च नाम नपुंसकं भवतीत्यर्थः। लध्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम् / 3 / 1 // 16 // लघ्वक्षरं सखिर्जितमिकारोकारान्तं स्वराद्यकारान्तमल्पस्वर पूज्यवाचि चैकं द्वन्द्वे प्राक् प्रयोक्तध्यम् / लघ्वक्षरम्- शरशीर्षम् / असखीदुत- अग्नीषोमो, पटुगुप्तौ / स्वराद्यत्- अस्त्रशस्त्रम् , उष्ट्रखरम् , उष्ट्रशशकम् / अश्वरथेन्द्राः, इन्द्ररथाश्वाः अत्रैकस्यैव नियमः 'स्पर्धे परम् ' इति न्यायात् / अल्पस्वरम्-प्लक्षन्यग्रोधौ,धवखदिरपलांशाः / अय॑म्- श्रद्धामेधे / एकमिति किम्- शङ्खदुन्दुभिवीणाः, वीणादुन्दुभिशङ्खा नात्र वीणाशङ्खयोयुगपत् पूर्वनिपातः / आ द्वन्द्वे / 3 / 2 / 39 /