________________ घटं कुर्वातेऽत्र चैत्रशब्दो द्वयर्थो मैत्रशब्दोऽपि द्वयर्थः, चकारेणे, तु. लक्ष्यतेऽयमर्थः / समानानामर्थेनैक शेषः / 3 / 1 / 118 / समानार्थानां शब्दानां सहोक्तौ गम्यमानायामेकः शिष्यतेऽ..... दिन्ये लुप्यन्ते / वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा / अथेन समानानामिति किम्- प्लक्षन्यग्रोधौ। सहोक्ताविति किम्-वध कुटिलश्च दृश्यः। / स्यादावसंख्येयः / 3 / 1 / 119 / सर्वस्यां स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तौ गम्यमानायामेकः शिष्यते, संख्येयवाचि शब्दरूपं वर्जयित्वा / अक्षश्च शकटः, अक्षश्च देवनः, अक्षश्च बिभीतक इति अक्षाः। एवं घटाः पटा देवा इत्यादयः / 'त्यदादिभिरन्येन सहोक्तौ त्यदादिरेवैकः शिष्यते। सच चैत्रश्च तौ / 'भ्रात्रर्थस्य स्वस्रर्थेन सहोक्तौ भ्रात्रर्थ एकः शिष्यते' 'पुत्राथस्य दुहित्रर्थेन सहोक्तौ पुत्रार्थश्चैकः शिष्यते' भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ / 'मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते' माता च पिता च पितरौ मातापितरौ वा। वृद्धो यूना तन्मात्रभेदे / 3 / 1 / 124 / / .. * वृद्धप्रत्ययान्तस्य युवप्रत्ययान्तेन सहोक्तौ वृद्धप्रत्ययान्त एकः शिष्यते, तन्मात्रभेदे एव न तु प्रकृतिभेदेऽर्थभेदे वाऽन्यस्मिन् भेदे