________________ (190) अथ द्वन्द्वसमासप्रकरणम् / चाथै द्वन्दः सहोक्तौ / 3 / 1 / 117 / . चार्थे वर्तमानं नाम नाम्ना सह सहोक्तिविषये समस्यते, स च समासो द्वन्द्वसम्झो भवति / समुच्चयान्वाचयेतरेतरसमाहारमे. दात् चतुर्विधश्चार्थः / अनेकस्य क्रियाकारकादेरेकस्मिन्नथें तुल्यबलतया ढौकनं समुच्चयः / यथा विप्रः पठति पचति च, चैत्रो मैत्रश्च पठति / गुणप्रधानभावमात्रविशेषः समुच्चय एवान्वाचयो यथा हे बटो भिक्षामट, गां चानय / समुच्चयान्वाचयरूपे चार्थेऽन्योन्यापेक्षाभावाद् न भवति समासः / द्वयोस्तु इतरेतरसमाहारयोर्भवति / अन्योन्यसापेक्षाणामेव द्रव्याणामुद्भूतावयवभेदसमूह इतरेतरयोगः / अजयपालश्च विजयपालश्च जीवादिपदार्थ जानीत इति अजयपालविनयपालौ जीवादिपदार्थ जानीतः। धवश्च प्लक्षश्च घवप्लक्षौ, धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः; अत्रावयवानामुद्भूतत्वात् तन्निबन्धनं द्वित्वं बहुत्वं च भवति ।न्यग्भूतावयवभेदः समूहः समाहारः / धवश्च खदिरश्चानयोः समाहारः धवखदिरम् , धवश्च पलाशश्च न्यग्रोधश्चैषां समाहारः धवखदिरन्यग्रोधम् / अत्रावयवानां न्यग्भूतत्वात् समुदायस्य च प्राधान्यात् तस्यैकत्वाच्चैकवचनम्। पदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः। चैत्रमैत्री