________________ . इति किम्- द्रव्येऽर्थे वर्तमानाद् न भवति शोभना गन्धा द्रव्याणि यस्य स सुगन्ध आपणिकः / 'आहार्ये गुणे का इद् वक्तव्यः' शोभनो मधो यस्य तत् सुगन्धि सुमन्धं शरीरम्। 'अल्पार्थाद् गन्धशब्दाद् विकल्पेनेद् वाच्यः' सूपगन्धि, घृतगन्धि भोजनम् / 'उपमानार्थात पराद् गन्धशब्दादपि उत्पलगन्धि मुखम् / 'सम्पूर्वात् प्रपूर्वाच्च जानुशब्दस्य बहुव्रीहौ जुज्ञावादेशौ वाच्यौ' संज्ञः, संज्ञः, प्रजुः, प्रज्ञः। 'मन्दाल्पाभ्यां पराद् मेधाशब्दस्यापि बहुव्रीहौ अस् समासान्तो वाच्यः' मन्दा मेधा यस्यासौ. मन्दमेधा एवमल्पमेधाः / ___स्त्रियाम्धसो न् / 7 / 3 / 169 / . स्त्रियां वर्तमानस्योधसो बहुव्रीहौ न् स्यात् / कुण्डमिवोधों यस्याः सा कुण्डोध्नी गौः। स्त्रियामिति किम्- कुण्डोधागोगणः। 'खर-खुरशब्दात् परस्य नासिकाशब्दस्य सज्ञायां नसादेशः स्यात् खरणाः, खुरणाः / 'उपसर्गात् परस्य नासिकाया नसादेशो वाच्यो बहुव्रीहौ' प्रणसं मुखम् / 'वेरुपसर्गात्तु नासिकाया खु-ख-या आदेशा बोध्याः' विगता नासिका यस्यासौ विखुः, विखः, विनः / 'धनु:शब्दस्य बहुव्रीहौ धन्वन् वक्तव्यः' पुष्पधन्वा / सक्थ्यक्ष्णः स्वाङ्गे / 7 / 3 / 126 / स्वाबारे यो सक्थ्यक्षी तदन्ताद् बहुव्रीहेष्टो भवति / दीर्घसक्थी, विशालाक्षी / स्वाङ्ग इति किम्- दीर्घसक्थि शकटम् / .. प्रमाणीसंख्याद् डा / 7 / 3 / 128 /