________________ (146) हरिणाक्षी, हंसगमनाऽऽदयोऽस्मिन् गणे द्रष्टव्याः / प्रादिपूर्व धातुजं पदं समस्यते, विकल्पेन उत्तरपदलोपश्च / प्रपतितानि पर्णानि यस्य स प्रपर्णः, न विद्यमानः पुत्रो यस्य स अपुत्रः, पक्षे अपतितपर्णः, अविद्यमानपुत्र इति / __सहस्तेन / 3 / 1 / 24 / ... तुल्ययोगे विद्यमानायें च वर्तमानं सहेति नाम तृतीयान्तेन नाम्ना समस्यते, अन्यपदार्थे स च बहुव्रीहिः / तुल्ययोगो द्रव्यगुणक्रियया। पुत्रेण सह गोमान सपुत्रोगोमान्, पुत्रेण सह स्थूल: सपुत्रः स्थूलः, पुत्रेण सहागतः सपुत्र आगतः / विद्यमानता- सह कर्मणा वर्तत इति सकर्मा जीवः, सलोमकः पुरुषः। सहेति किम्साकं पुत्रेण / सहस्य सोऽन्यार्थे / 3 / 2 / 143 / - उत्तरपदे परे बहुव्रीहौ सहस्य स आदेशो वा स्यात् / सपुत्रः, सच्छात्रः / विशेषण-सर्वादि-संख्यं बहुव्रीहौ / 3 / 1 / 150 / .. विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राग् निपतति / चित्रगुः, कालकण्ठः, मोक्षबुद्धिः, सर्वशुक्लः, त्रिकृष्णः / प्रियशब्दो वा प्राग् निपतति' गुडप्रियः, प्रियगुडः / गवादिभ्यः / 3 / 1 / 156 /