________________ ( 146) अथ बहुव्रीहिसमासप्रकरणम् / एकार्थ चानेकं च / 3 / 1 / 22 / एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थसमानाधिकरणमिति यावद् / एकमनेकं चैकार्थ नामाव्ययं च नाम्ना सह समस्तं भवति द्वितीयाद्यन्तस्यान्यपदस्यार्थे वाच्ये सति; स च समासो बहुव्रीहिसञ्जको भवति / प्राप्तमुदकं यमसौ प्राप्तोदको ग्रामः, उदो. रथो येन स ऊढरथोऽनड्वान् , उपहृतो बलिय॑स्मै स उपहृतवलि. यक्षः, उद्धृत ओदनो यस्याः सा उद्धृतौदना स्थालिः, वीराः पुरुषा यस्मिन् स वीरपुरुषों रणः, चित्रा गावो यस्य स चित्रगु देवदत्तः। अनेक- शोभना सूक्ष्मा जटा केशा यस्यासौ सुसूक्ष्मजटकेशः, सुलभमजिनं वासो यस्मिन् तत् सुलभानिनवासः क्षेत्रम् / अव्ययम्- उच्चैर्मुखं यस्य स उच्चैर्मुखः, एवं नीचैर्मुखः, कर्तुकामः, अन्तरङ्गम् / व्यधिकरणत्वेनाव्ययस्य प्राप्त्यभावाद् चपदेन तदनुकर्षणम्। बहुव्रीहिर्द्विविधः-तद् गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च / प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुणसंविज्ञानो यथा लम्बकर्णश्चैत्रः; यत्र न ज्ञायते सोऽतद्गुणसंविज्ञानो यथा पीतसमुद्रः / 'उध्रमुखादयो बहुव्रीहिसमासान्ता निपातनाद केदितव्याः' उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः, अत्र व्यधिकरणसमासो मुखशब्दस्येवशब्दस्य च लोपश्च निपातनात् विधेयः / एवं 10