________________ (144) स्वाडाद विहितो यो ङोस्तदन्तो जातिवाची च परतः स्त्री पुंवद् न भवति, मानिनि परे न / दीर्घकेशी भार्या यस्य स दीर्घकेधीभार्यः / एवं चन्द्रमुखीभार्यः। जातिः- ब्राह्मणी भार्या यस्य स ब्राह्मणीभार्यः / अमानिनीति किम् , दीर्घकेशमानिनी / कठ• मानिनी इत्यादि। तद्धितः स्वरवृद्धिहेतुररक्तविकारे / 3 / 2 / 55 / स्वरस्थानाया वृद्धहेतुभूतो रक्तविकाराच्चान्यत्रार्थे विहितो यस्तद्धितस्तदन्तः परतः स्त्री पुंवद् न भवति / मैथिली भार्या यस्य स मैथिलीभार्यः / एवं माथुरीभार्यः / वैदर्भीभार्यः / तद्धित इति किम् , कुम्भकारी भार्या यस्य स कुम्भकारभार्यः / वृद्धिहेतुरिति किम्, शोभनतरा भार्या यस्य स शोभनतरभार्यः / अन्ये तु वृद्धिहेत्वोस्तद्धितप्रत्यययोः ब्णितोरेव प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीभार्यः इत्यादिर्भवति / अरक्तेति किम् , कषायेण रक्ता काषायी, काषायी वृहतिका यस्य स काषायवृहतिकः, लोहस्य विकारो लौही, सा ईषा यस्य स लौहेषः / इति तत्पुरुषसमासप्रकरणम् /