________________ (143) क्यङ्-मानि-पित्तद्धिते / 3 / 2 / 50 / क्यङ्प्रत्यये मानिनि चोत्तरपदे परे पित्तद्धिते च परत: स्त्री पुंवत् स्याद् , अनूङ् / श्येनी इवाचरति-श्येतायते, एनीवाचरतिएतायते / दर्शनीयां मन्यते-दर्शनीयमानी अयमस्याः / दर्शनीयकल्पा / अजथ्यं यूथम् / . नापियादौ / 3 / 2 / 53 / ..पूरण्यप्प्रत्ययान्ते स्त्रयेकार्थे उत्तरपदे प्रियादौ च पुंवद्भावो न भवति / कल्याणी पञ्चमी यासु ताः कल्याणीपञ्चमा रात्रयः। कल्याणीप्रिया यस्य स कल्याणीप्रियः / एवं प्रियासुभगः, भव्याप्रियः / प्रिया, भक्ति, मनोज्ञा, सुभगा, दुर्भगा, क्षान्ता, कल्याणी, चपला, सचिवा, समा, वामा, कान्ता, बाला, तनया, दुहित, स्वस इत्यादिप्रियादयः। तद्धिताककोपान्त्यपूरण्याख्याः / 3 / 2 / 54 // तद्धितप्रत्ययस्याकंप्रत्ययस्य च यः कः स उपान्त्यो यासां ताः पूरणप्रत्ययान्ताः सञ्ज्ञाश्च परतः स्त्री पुंवद् न भवति / मद्रिका भार्या यस्य स मद्रिकाभार्यः / लाक्षिकाभार्यः। अककारिका भार्या यस्य स कारिकामायः, हारिकामायः। पूरणीद्वितीया भार्या यस्य स. द्वितीयमार्यः, पञ्चमीभार्यः। आख्यादत्ता भार्या यस्य स दत्ताभार्यः / तद्धिताकविशेषणं किम्, पाका मार्या. यस्य स पाकमार्यः। स्वाजाद् डीर्जातिश्चामानिनि / 3 / 2 / 56 /