________________ (142) कोः कत् तत्पुरुषे / 3 / 2 / 130 / स्वरादावुत्तरपदे परे तत्पुरुषसमासे कुशब्दस्य कदादेशः स्यात् / कुत्सितमन्नम्-कदन्नम् / कदश्वः / रथ-चदे / 3 / 2 / 131 / कुशब्दस्य रथे वदे चोत्तरपदे कदादेशः स्यात् / कद्रथः / कद्वदः / काक्ष-पथोः / 3 / 2 / 134 / कुशब्दस्य कादेशः स्यादनयोः परयोः / काक्ष: / कापथः / 'पुरुषे वा' कापुरुषः, कुपुरुषः / 'अल्पार्थस्यापि कोः काऽऽदेशः' कामधुरम् अल्पमधुरमित्यर्थः / ___ का-कवौ वोष्णे / 3 / 2 / 137 / उष्णे उत्तरपदे का-कवौ वाऽऽदेशौ स्याताम्। ईषदुष्णम्कोष्णम्, कवोष्णम् / पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम्। बहुव्रीहौ कूष्णः / परतः स्त्री पुंवत् रूयेकार्थेऽनङ् / 3 / 2 / 49 / अन्यतो विशेष्यवशात् स्त्रीलिङ्गः स्त्रियां वर्तमाने तुल्याधिकरणे उत्तरपदे परे पुंवत् स्यात् / न तूङन्तः / दर्शनीया भार्या यस्य स दर्शनीयमार्यः / पट्वी भार्या यस्य स पटुभार्यः / . परतः स्त्रीत्यादि किम् , गङ्गाभार्यः, गृहिणीनेत्रः / अनूङिति किम् , ब्रह्मबन्धूमार्यः।