________________ (139). नाकः / न विद्यन्तै नाः श्रियः छन्दांसि वा यस्येति नग्नः / न गच्छतीति नगः / न अगः नागः / एवं नमेरुः, ननान्दा, न. मागः, नान्तरीयः / नवाद इत्यादयः / / अन् स्वरे / 3 / 2 / 129 / स्वरादावुत्तरपदे परे नजित्यस्य अनित्यादेशः स्यात् / न विद्यते अन्तो यस्येति अनन्तः / न अश्वः-अनश्वः / न अज:अनजः। इति नञ्समासपकरणम् / विशेषणं विशेष्येणैकार्थ कर्मधारयश्च / 3 / 1 / 96 / भेदकं विशेषणं, भेद्यं विशेष्यम् / भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यं सामानाधिकरण्यम् / विशेषणवाचि नाम विशेष्यवार्चिना समानाधिकरणेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषसब्ज्ञः सन् कर्मधारयसञः स्यात् / नीलं च तदुत्पलं चेति नीलोत्पलम् / रक्तं च तत् कमलं च रक्तकमलम् / कृष्णा चासौ शाटी च कृष्णशाटी। पुमांश्चासौ गौश्च पुङ्गवः / विशेषणमिति किम् ,तक्षकः सर्पः / विशेष्येणेति किम् , लोहितः तक्षकः / विशेषण-विशेष्ययोः सम्बन्धिशब्दत्वेनैकतरो. पादानेनैव सिद्धे उभयोरुपादानं परस्परव्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यात् /