________________ (138) प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता / पर्युदासः स विज्ञेय उत्तरपदगतो नञ् // 2 // अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता / प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् // 3 // न मनुष्यः- अमनुष्यः, न सूर्य पश्यन्तीति-असूर्यम्पश्या राजदाराः / पुनरपि तत्सदृशन्तद्विरुद्ध-तदन्य-तदभावभेदात् स नम् चतुर्धा / न ब्राह्मणः अब्राह्मणः ब्राह्मणसदृश इत्यर्थः। न धर्मोऽधर्मः तद्विरुद्ध इत्यर्थः / न वायुः अवायुः वायुभिन्नः पदार्थ इत्यर्थः / न वचनमवचनं वचनाभाव इत्यर्थः / प्रथमत्रयाणां पर्युदासे चतुर्थस्य प्रसज्ये चान्तर्भावः। __ नबत् / 3 / 2 / 125 / नशब्दस्य स्थाने अकारादेशः स्यादुत्तरपदे परे / अब्राह्मणः / अहिंसा / असत्यम् / अस्तेयम् / नखादयः / 3 / 2 / 128 / नखादयः शब्दा अकृतनञकारादेशा निपात्यन्ते / नास्य खं विद्यते इति नखः / न भ्राजत इति नभ्राट् / न पातीति नपात् / न विदन्तीति नवेदाः / सत्सु साधुः सत्यः, न सत्यः असत्यः, न असत्यः नासत्यः। न मुञ्चतीति नमुचिः / नास्य कुलमस्तीति नकुलः / न पुमान् न स्त्रीति नपुंसकः / न क्षरति क्षीयते वेति नक्षत्रम् / न कामतीति नक्रः / नास्मिन् अर्क दुःखमस्तीति