________________ . (137) __कृति / 3 / 1 / 77 / 'कर्मणि कृतः , ' कर्तरि ' एतत्सूत्रद्वयेन कृत्प्रत्ययनिमित्ता या षष्ठी उक्ता तदन्तं नाम नाम्ना सह समस्यते / सिद्धसेनस्य कृतिः-सिद्धसेनकृतिः / गणधराणामुक्तिः-गणधरोक्तिः / इध्मवृश्वनः / पलाशशातनः / सप्तमी शौण्डायैः / 3 / 1 / 88 / सप्तम्यन्तं नाम शौण्डादिभिर्नामभिः सह समस्यते, सच तत्पुरुषसज्ञः स्यात् / अक्षेषु शौण्ड:-अक्षशौण्डः, इह शौण्डशब्दो व्यसने वर्तते / अक्षधूर्तः / अक्षकितवः / वृत्तौ प्रसक्तिक्रियाया अन्तर्भावाद् अक्षादिष्वधिकरणे सप्तमी। बहुवचनमाकृतिगणार्थम् / 'काकाद्यानां क्षेपे गम्यमाने समासो वाच्यः' तीर्थे काक इव-तीर्थकाकः इत्यादि / 'पात्रेसमितादयो निपातनात् साधवः' पात्रे एव समिता न तु कायें इति पात्रेसमिताः, पानेबहुलाः, गेहेशूर इत्यादयः / अग्नावाहितः-आहिताग्निरित्यादौ पूर्वप्रयोगः क्वचिद् द्रष्टव्यः / / नञ् / 3 / 1 / 51 / ननिति नाम नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् / नञ् द्विविधः, यदुक्तम्... * उभौ नौ समाख्यातौ पर्युदासप्रसज्यको / पर्युदासः सदृग्याही प्रसज्यस्तु निषेधकृत् // 1 //