________________ ( 136) धर्मापेतः / सुखापेतः / कल्पनाप्रौढः / अधर्माद् जुगुप्सुः-अधमजुगुप्सुः / सुखपतित इत्यादिः। क्तेनासचे / 3 / 1 / 74 / असत्त्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तप्रत्ययान्तेन नाम्ना सह समस्यते, स च तत्पुरुषः / स्तोकान्मुक्तः / अन्तिकादागतः। अभ्याशादागतः / दूरादागतः। विप्रकृष्टादागतः / कृच्छ्रान्मुक्तः / 'असत्त्वे उसेः / इत्यलुक्समासः / ' परःशताद्या निपातनाद् ज्ञेयाः ' शतात् परे, सहस्रात् परे, लक्षात् परे; परः शताः, परस्सहस्राः, परोलक्षा इत्यादयः / . षष्ठ्ययत्नाच्छेषे / 3 / 1 / 76 / . शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते, न चेत् स.शेषो यत्नाद् विहितः स्यात् / कर्मसज्ञायां सिद्धायां पक्षे च कर्माविवक्षायां सम्बन्धमात्रविवक्षया षष्ठ्यां सिद्धायां सत्यां या सूत्राप्यस्य कर्मसञ्ज्ञा विकल्पिता पक्षे च षष्ठी कृता सा सर्वा षष्ठी यत्नषष्ठी, यत्नात् शेषे षष्ठी जातेति यत्नशेषषष्ठी कथ्यते / ' नाथः , ' स्मृत्यर्थदयेश: ' इत्यादिना यत्नाद् विहितः शेषः-यत्नशेष इत्यर्थः, तं यत्नशेषं वर्जयित्वा या षष्ठी तदन्तं नाम समस्यत इत्यर्थः / राज्ञः पुरुषः-राजपुरुषः / गृहस्थानां गृहम्-गृहस्थगृहम् / गवां क्षीरम्-गोक्षीरम् / अयत्नादिति किम्, मातुः स्मारकः, सर्पिषो नाथकः अत्र सम्बन्धषष्ठी, न कृदन्तकर्मनिमित्ता।