________________ ( 135) शस्कुलया खंण्ड:- शङ्कुलाखण्डः- शङ्कुलया कृतः खण्ड इत्यर्थः / किरिणा काणः-किरिकाणः। धान्येनार्थ:-धान्यार्थः / तस्कृतैरिति किम् , अक्ष्णा काणः / चतुर्थी प्रकृत्या।३।१।७०। चतुर्थ्यन्तं विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् / घटाय मृत्तिका-घटमत्तिका / कुण्डलाय हिरण्यम्-कुण्डलहिरण्यम् / यूपाय दारुयूपदारु / हितादिभिः।३।१।७१। चतुर्थ्यन्तं नाम हितादिभिर्नामभिः सह समस्यते / साधुभ्यो हितम्-साधुहितम् / श्राद्धाय सुखम्-श्राद्धसुखम् / श्राविकायै रक्षितम्-श्राविकारक्षितम् / भूताय बलि:- भूतबलिरित्यादिः / तदर्थार्थेन / 3 / 1 / 72 / / चतुर्थ्यन्तं नाम तदर्थेन चतुर्थ्यर्थेनार्थशब्देन सह नित्यं समस्यते, स च समासस्तत्पुरुषः / वाच्यलिङ्गता / कुमारपालायेदम्-कुमारपालार्थमिदं राज्यम् / श्राद्धायेयं यवागू:-श्राद्धा यवागूः / उदकायायम्-उदकार्थो घटः / पञ्चमी भयाद्यैः / 3 / 1 / 73 / . . पञ्चम्यन्तं नाम भयाद्यैर्नामभिः सह समस्यते स च समासः तत्पुरुषः स्यात् / नरकेभ्यो भयम्-नरकमयम् / धर्मादपेतः