________________ (140) उपमानं सामान्यैः।३।१।१०१।.. उपमीयतेऽनेनेत्युपमानम् / उपमानवाचि नामैकार्थ सामान्यवाचिभिरेव नामभिः समस्यते, स च तत्पुरुषः सन् कर्मधारयः स्यात् / उपमानोपमेयोभयगतसाधारणधर्मः सामान्यम् / शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा / घनश्यामः / उपमानमिति किम् , देवदत्तः श्यामा / सामान्यैरिति किम्, पर्वता इव बलाहकाः। उपमेयं व्याघ्रायः साम्यानुक्तौ / 3 / 1 / 102 / उपमेयवाचि नाम सामर्थ्यादुपमानवाचिभिर्व्याघ्रादिभिः सह समस्यते, स च तत्पुरुषकर्मधारयसम्ञः स्यात् / न चोपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते / व्याघ्र इव व्याघ्रः, पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः / पुरुषसिंहः / साम्यानुक्ताविति किम् , पुरुषो व्याघ्र इव शूरः / __पुंवत् कर्मधारये / 3 / 2 / 57 / उङन्तवर्जा परतः स्त्री कर्मधारय समासे ख्येकार्थे उत्तरपदे परे पुंवद् भवति / प्रतिषेधनिवृत्त्यर्थमिदम् / कल्याणी चासौ प्रिया च कल्याणप्रिया / मद्रिका चासौ भार्या च मद्रकभार्या / माथुरवृन्दारिका / चन्द्रमुखमार्या। ङस्युक्तं कृता / 3 / 1 / 49 /