________________ (133) .. थाप्रत्ययरहितं यथेत्यव्युत्पन्नं नाम नाम्ना सह समस्यते पूर्व'पदार्याभिधेये / यथावृद्धं श्राद्धान् आमन्त्रयस्व-ये ये वृद्धास्तान् इत्यर्थः। अथेति किम् , यथा चैत्रस्तथा मैत्रः / पूर्वेणैव सिद्धे सादृश्यप्रतिषेधार्थ सूत्रम् / यावदियत्त्वे / 3 / 1 / 31 / यावदित्यव्ययमवधारणे वर्तमानं नाम्ना सह समस्यते, सच समासोऽव्ययीभावसञ्जकः स्यात् / यावदमत्रं श्राद्धान् मोजययावन्त्यमत्राणि सम्भवन्ति तावतो भोजयेत्यर्थः / नित्यं प्रतिताऽल्पे / 3 / 1 / 37 / अल्पार्थे वर्तमानेन प्रतिना सह नाम समस्यते, स चाव्ययीभावः / शाकस्याल्पत्वं शाकप्रति। सूपप्रति। इत्यव्ययीभावसमासप्रकरणम् / . अथ तत्पुरुषः। श्रितादिभिः / 3 / 1 / 62 / - द्वितीयान्तं नाम श्रितादिभिर्नामभिः सह समस्यते, सच समासस्तत्पुरुषसंज्ञः स्यात् / जिनं श्रितः जिनश्रितः। संसारमतीतः संसारातीतः / नरकं पतितः नरकपतितः / पादलिप्तं गमी पादलिप्तगमी / तुहिनमत्यस्तः तुहिनात्यस्तः / - प्राप्तापन्नौ तयाऽच्च / 3 / 1 / 63 /