________________ (132) निलम्पकम् / अत्ययो नामातीतत्वं विद्यमानस्यातिक्रमः- अतीतानि शीतानि निःशीतं वर्तते / असम्प्रति- वर्तमानकाले उपभोगाभावःकम्बलस्य सम्प्रति उपभोगाभाव इति अतिकम्बलम्-कम्बलमूर्णावस्त्रं तस्यायमुपभोगकालो न भवतीत्यर्थः / पश्चात्- रथस्य पश्चादनुरथं पदातिर्याति / क्रमः-आनुपूर्वी ज्येष्ठस्य क्रमेणेति अनुज्येष्ठं गच्छ- . न्तु भवन्तः-ज्येष्ठानुपूर्व्या . गच्छन्तु इत्यर्थः / ख्यातिः-प्रथाइतिहेमचन्द्रम् इतिधर्मसूरि हेमचन्द्रस्य धर्मसूरेश्च ख्यातिरित्यर्थः / योगपद्यमेककालता चक्रेण सहककालं गदां धेहीति सचक्रम्, अत्र 'अकालेऽव्ययीभावे' इति सहशब्दस्य सादेशः / सदृग्व्रतेन सदृशमिति सव्रतम् / सम्पत्-अनुरूप आत्मभाव:- साधूनां ब्रह्मणः सम्पदिति सब्रह्म-साधूनां सम्पन्नं ब्रह्मेत्यर्थः / साकल्यमशेषता-सतृणमभ्यवहरति न किञ्चित् त्यजतीत्यर्थः / अन्तःसमाप्तिः सपिण्डैषणमधीते पिण्डैषणापर्यन्तमधीत इत्यर्थः / योग्यता-चीप्सा-र्थानतिवृत्ति-सादृश्ये। 3 / 1 / 40 / एष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सह समस्यते, सच समासोऽव्ययीभावसञ्जकः स्यात् / योग्यता-रूपस्य योग्यमनुरूपं चेष्टते / वीप्सा अर्थमर्थं प्रति प्रत्यर्थम् / शक्तिमनतिक्रम्य पठतीति यथाशक्ति / शीलस्य सादृश्यम्-सशीलमनयोः समान- . शीलतेत्यर्थः / यथाऽथा।३।१। 41 / /