________________ (131) विभक्त्याद्यर्थेषु यदव्ययं तद् नाम्ना सहैकार्थे सति पूर्वपदार्थांभिधेये नित्यं समस्यते, स समासोऽव्ययीभावसङ्घकः स्यात् / अत्र विभक्तिपदेन विभक्त्यर्थो ग्राह्यः / स्त्रीष्वधिकृत्य कथा प्रवर्तत इति वाक्येऽधिकरणरूपस्य सप्तम्या अर्थस्य द्योतकमधि अव्ययं स्त्रीनाम्ना सह समस्तम् इति 'ऐकाय' इत्यनेन विभक्तेलुपि स्त्री+अधि इति स्थिते .. प्रथमोक्तं प्राक् / 3 / 1 / 148 / -- इह समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् प्रयोक्तव्यम् / 'द्वन्द्वैकत्वाव्ययीभावौ' इति लिङ्गानुशासनात् क्लीबत्वम्, ततश्च 'क्लीबे' इति हस्खे अधिस्त्रि / एवं कुमार्यामिति अधिकुमारि / नित्यसमासाधिकारेऽस्वपदेनैव विग्रहः, न तु समस्यमानाभ्यां पदाभ्याम् / समीपे- कुम्भस्य समीपम् अत्रापि सर्व पूर्ववत् समुदितस्य तु विभक्तेः- . . .... अमव्ययीभावस्यातोऽपञ्चम्याः / 3 / 2 / 2 / . अदन्तादव्ययीभावात् परस्य स्यादेरम् स्यात्, पञ्चर्मी त्यक्त्वा / उपकुम्भम् अस्ति पश्यति वा सर्वत्राम् / 'तृतीयायां सप्तम्यां च विकल्पेन अम् कर्तव्यः / उपकुम्भेन उपकुम्भं कृतम्, उपकुम्भे उपकुम्भं निधेहि / ऋद्धराधिक्यं समृद्धिः- कुमारपालस्य समृद्धिः सुकुमारपालम् / ऋद्धेरभावो व्यृद्धि- ब्राह्मणानां व्यृद्धि दुर्बाह्मणम् / अर्थाभावो नाम वस्तूनामभाव:- लुम्पकानामभावो