________________ (130) टुक् स्यात् / पूर्व भूतः- भूतपूर्वः / राज्ञः पुरुषः- राजपुरुषः / बहुलाधिकारात् क्वचिदिवेन समासो विभक्तेरलोपश्च जीमूतस्येव इत्यादि। समासश्चतुर्धा-अव्ययीभाव-तत्पुरुष-द्वन्द्व-बहुव्रीहिभेदात् / अयं च प्रायोवादः-भूतपूर्वः, इन्भूः, कारभूः, आयतस्तु, विस्पष्टपटुरित्यादीनां समस्यमानत्वेऽप्यसंग्रहात् / तथाऽपरोऽपि प्रायोवाद:पूर्वपदप्रधानोऽव्ययीभावः, उत्तरपदप्रधानस्तत्पुरुषः, उभयपदप्रधानो द्वन्द्वः, अन्यपदप्रधानो बहुव्रीहिश्चेति; उन्मत्तगङ्गमित्यादावव्ययीभावेऽपि पूर्वपदप्राधान्याभावादव्ययीभावलक्षणस्याव्याप्तेरन्यपदप्रधानरूपबहुव्रीहिलक्षणस्यातिव्याप्तेश्व, एवं सूपप्रति इत्यत्रोत्तरपदार्थप्राधान्यात् तत्पुरुषलक्षणस्यातिव्याप्तिरव्ययीभावलक्षणस्याव्याप्तिश्च, अर्धपिप्पलीत्यत्र तत्पुरुषे पूर्वपदप्राधान्यादव्ययीभावलक्षणातिव्याप्तिस्तत्पुरुषलक्षणाव्याप्तिश्च, द्वित्रा इत्यादौ बहुव्रीहौ द्वयपदार्थप्राधान्याद् द्वन्द्वलक्षणस्यातिव्याप्तिबहुव्रीहिलक्षणस्याव्याप्तिश्च, शशकुशपलाशम् इत्यत्र समाहारद्वन्द्वे समाहाररूपान्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिर्द्वन्द्वलक्षणाव्याप्तिश्च / तस्मान्नैतानि अव्ययीभावादीनां लक्षणानि, किन्तु-अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वं, तत्पुरुषाधिकारपठितत्वं तत्पुरुषत्वं, द्वन्द्वाधिकारपठितत्वं द्वन्द्वत्वं, बहुव्रीह्यधिकारपठितत्वं बहुव्रीहित्वम् / विभक्ति-समीप-समृद्धि-व्यद्धयर्थाभावात्ययासम्पति-पश्चातक्रम-ख्याति-युगपत्-सदृक्-सम्पत्-साकल्यान्तेऽव्य यम् / 3 / 1 / 39 /