________________ (129) अथ समासप्रकरणम् / समर्थः पदविधिः / 7 / 4 / 122 / यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो ज्ञातव्यः, विधीयत इति विधिः पदानां पदयोः पदस्य वा विधिः पदविधिः; स पुनः समासादिः समर्थः शक्तः। विग्रहवाक्यार्थाभिधाने यः शक्तः सं समर्थो नाम शक्को बोद्धव्यः / तच्च सामर्थ्यमेका भावलक्षणम्, एकार्थीभावश्च परस्परान्वयित्वेन मिलितानां पदानामेकक्रियाऽन्वयित्वरूपम् / अथवा समर्थानां सम्बद्धार्थानां परस्परं संसृष्टार्थानां पदानां विधिः समर्थपदविधिर्बोद्धव्यः / नाम नाम्नैकायें समासो बहुलम् / 3 / 1 / 18 / नाम नाम्ना सह परस्परान्वयरूपे ऐकार्थ्यरूपसामध्ये सति समाससंज्ञं बहुलं स्यात् / लक्षणमधिकारश्चेदं सूत्रं तेन यत्र विशेषसज्ञाऽभावः तत्रानेनैव समासविधिः / विस्पष्टं पटुः विस्पष्टपटुः इत्यादिः / नामेति किम् ,चरन्ति गावो धनमस्य / नाम्नेति किम् , चैत्रः पचति / क्वचिदनामापि, भाति अर्को यत्र तद् भात्यक नभः / क्वचिदनाम्नाऽपि अनुव्यचलत् / ऐकायें / 3 / 2 / 8 / - ऐकार्थ्यमैकपद्यमेकविभक्तिकत्वं च तन्निमित्तस्य स्यादेविभक्ते