________________ (128) तद्युक्ते हेतौ / 2 / 2 / 100 / तेन व्याप्येन युक्ते तद्युक्ते हेतौ वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् / चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः // 1 // .. षष्ठी वाऽनादरे / 1 / 2 / 108 / अनादरे गम्यमाने यद्भाको यस्य मावस्य लक्षणं तद्वाचिनो गौणाद् नाम्नः षष्ठी वा स्यात् / राना बहुष्वसाधुषु वदत्सु प्रात्राजीत् / बहुषु साधुषु वदत्सु स्वयमार्यो भगवान् साधुमार्गेण गतवान् / एवं बहुषु साधुषु वदत्सु अनार्योऽनार्यमार्गेण गतवान् / पक्षे बहूनां साधूनां वदतामिति षष्ठी। ' कर्ता कर्म च करणं सम्प्रदानं तथैव च / अपादानाधिकरणमित्याहुः कारकाणि षट् // 1 // द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा / उक्तकर्तृप्रयोगे तु प्रथमैव प्रयुज्यते // 2 // यदा कर्तरि तृतीया कर्मणि प्रथमा तदा / उक्तकर्मप्रयोगे तु क्यो न स्याञ्च परस्मैपदम् // 3 // इति कारकमकरणं समासम् / 1 गुद-मेदान्तरालाङ्गं सीमेति प्रोच्यते बुधैः / पुष्कलको मृगभेदः स्याद् वन्योऽसौगन्धहेतुंकः //