________________ (127) श्चतुर्थी स्यात् / संयमाय श्रुतं धत्ते / धर्माय संयमम् / धर्म मोक्षाय / धनं दानाय मुक्तये वा। क्रुद्-दुहेाऽसूयार्थैर्य प्रति कोपः / 2 / 2 / 27 / क्रधाद्यर्थानां धातूनां योगे यं प्रति कोपः स सम्प्रदानसञः स्यात् / चैत्राय क्रुध्यति / जिनदत्ताय द्रुह्यति / धर्मपालायेय॑ति / पार्श्वदत्तायासूययति / अत्र सिंहावलोकनन्यायो द्रष्टव्यः / नोपसर्गात् क्रुद्-द्रुहा / 2 / 2 / 28 / ____ उपसर्गात् पराम्यां क्रुद्-द्रुहिभ्यां योगे यं प्रति कोपस्तत् सम्प्रदानसझं न स्यात् / चैत्रमभिक्रुध्यति। ऋषभदत्तमभिPाति / गम्ययपः कर्माधारे / 2 / 2 / 74 / प्रयोगेऽपठितस्य यबन्तस्य कर्मवाचिन आधारवाचिनश्च गौणाद् नाम्नः पञ्चमी स्यात् / प्रासादात् प्रेक्षते प्रासादमारुह्य प्रेक्षत इत्यर्थः / श्वशुराद निरुनि श्वशुरं वीक्ष्य जिहेतीत्यर्थः / सनात् प्रेक्षते आसने उपविश्य प्रेक्षत इत्यर्थः / / 'तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि / 2 / 2 / 66 / हितार्थेश्च सुखार्थेभद्राद्यर्थैर्युक्ताद् गौणाद् नाम्न आशिषि चतुर्थी वास्यात्। हितं जीवानां जीवेभ्यो वा भूयात्। सुखं प्रजानां प्रजाम्यो वा भूयात् / भद्रं शासनस्य शासनाय वा / आयुर्देवदत्तस्य देवदत्ताय वा भूयात् / क्षेमं कल्याणं श्राद्धानां श्राद्धेभ्योवा भूयात् / अर्थश्चैत्रस्य चैत्राय वा भूयाद् /