________________ / कातिः / .. (126) हेतवे, कस्माद् हेतोः, कस्य हेतोः, कस्मिन् हेतौ वा वसति / एवं निमित्तादीनां योगेऽपि / -आङाऽवधौ / 2 / 2 / 70 / आङा युक्तादवधिवाचिनो गौणाद् नाम्नः पञ्चमी स्यात् / आ पाटलिपुत्राद् वृष्टो मेघः पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा मेघो वृष्ट इत्यर्थः / आ बालेभ्यो जिनभक्तिः / आ आङ्ग्लभूमेर्विजयधर्मसूरीणां कीर्तिः / पर्यपाभ्यां वज्ये / 2 / 2 / 71 / ____ आभ्यां युक्ताद् वर्जनीयेऽर्थे गौणाद् नाम्नः पञ्चमी स्यात् / परि त्रिगर्तेभ्यो वृष्टो मेघः, अप त्रिगर्तेभ्यो वृष्टो मेघः त्रिगत मुक्त्वा वृष्ट इत्यर्थः / आख्यातर्युपयोगे / 2 / 2 / 73 / आख्याता वक्ता, नियमपूर्वकविद्याध्ययनमुपयोगः, आख्यातृवाचिनो गौणाद नाम्नो नियमपूर्वकविद्याग्रहणविषये पञ्चमी स्यात् / उपाध्यायादिन्द्रविजयादधीते निधानविनयः / उपयोग इति किम् नटस्य गाथां शृणोति / ... तादर्थ्ये / 2 / 2 / 54 / कञ्चित् पदार्थ निष्पादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य भावस्तादर्थ्य सम्बन्धविशेष इत्यर्थः, तस्मिन् द्योत्ये गौणाद् नाम्न