________________ ( 125) अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् / चौरस्य चौरं वा द्विषन् / वैकत्र द्वयोः / 2 / 2 / 85 / द्विकर्मकधातोर्द्वयोः कर्मणोरेकस्मिन् षष्ठी वा स्यात् / अजाया ग्रामं नेता / अजां ग्रामं नेता। ग्रामस्याजां नेता / ग्राममजां नेता। __ क्तयोरसदाधारे / 2 / 2 / 91 / सतो वर्तमानादाधाराच्चान्यत्रार्थे विहितौ यो क्त-क्तवतू तयोः कर्मकोंः षष्ठी न स्यात् / कुलालेन घटः कृतः / कुलालो घटं कृतवान् / असदाधार इति किम् राज्ञां ज्ञातः, इदमेषां शयितमित्यादौ षष्ठयेव / 'तृप्तार्थधातूनां करणे वा षष्ठी' फलानां फलैर्वा तृप्तः। हेत्वस्तृतीयाद्याः / 2 / 2 / 118 / . हेतुर्निमित्तं तदर्थैः शब्दैर्युक्तात् तैरेव समानाधिकरणाद् गौणाद् नाम्नस्तृतीयाद्या विभक्तयः स्युः / विद्यया हेतुना, विद्यायै हेतवे, विद्याया हेतोः, विद्याया हेतोः, विद्यायां हेतौ वा. वसति / एवं निमित्त-कारण-प्रयोजनादयः प्रयोक्तव्याः / सर्वादेः सर्वाः।२।२ / 119 / हेत्वथैर्युक्तात् तैरेव समानाधिकरणाद् गौणात् सर्वादेर्नाम्नः सर्वा विभक्तयः स्युः / को हेतुः, कं हेतुम् , केन हेतुना, कस्मै