________________ ( 124) कृत्यस्य वा / 2 / 2 / 88 / / कृत्यप्रत्ययान्तस्य कर्तरि षष्ठी वा स्यात् / मया मम वा पूज्या विजयधर्मसूरयः। कर्तरि / 2 / 2 / 86 / कृत्प्रत्ययान्तस्य कर्तरि षष्ठी नित्यं स्यात् / भवतः शायिका / चैत्रस्य स्वापः / देवदत्तस्य .भोजनम् / जिनदत्तस्य पठनम् / - कर्मणि कृतः / 2 / 2 / 83 / कृदन्तस्य सम्बन्धिनि कर्मणि गौगाद् नाम्नः षष्ठी स्यात् / तीर्थस्य कर्ता / ग्रामस्य गमनम् / ओदनस्य पाकः / तृ दवाव्यय-क्वस्वानातृश्-सतृ-डि-णकच-खल्वर्थस्य / 2 / 2 / 90 / तृनन्तस्योदन्तस्याव्ययस्य क्वसोरानस्यातृशः शतुर्णकचः खल्वर्थस्य च प्रत्ययस्य कर्मकोंः षष्ठी न स्यात् / वदिता जनापवादान् / शत्रून् जिष्णुः / देवार्चनं कृत्वा / ओदनं भोक्तुम् / पायं पायं पयो गच्छति / तपः तेपिवान् / प्रवचन विद्वान् / आनेति कानशानाऽऽनशां ग्रह्याम्, पटं चक्राणः / ग्राम पवमानः / ओदनं पचमानः / सूत्रमधीयन् / पटं कुर्वन् / परीषहं सासहिमुनिः। घटस्य पूरकः / सुकरो घटस्त्वया / द्विषो वाऽनृशः / 2 / 2 / 04 / /