________________ (123) एभिर्योगे गौणाद् नाम्नश्चतुर्थी स्यात् / शक्तो जिनदत्तः शिवदत्ताय / वषड् इन्द्राय / नमो जिनेन्द्राय / स्वस्तिशब्दः क्षेमार्थः स्वस्ति श्रीविजयधर्मसूरये, आशिष्यपि स्वस्ति सङ्घाय भूयाद् / अग्नये स्वाहा / पितृभ्यः स्वधा / रुचिक्लृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु / 2 / 2 / 55 / रुच्यर्थकैः क्लृप्यर्थकैर्धारिणा च योगे यथासङ्ख्यं प्रेये विकारे उत्तमणे चार्थे वर्तमानाद् गौणाद् नाम्नश्चतुर्थी स्यात् / देवदत्ताय रोचते जैनधर्मः तस्याभिलाषमुत्पादयतीत्यर्थः / मूत्राय कल्पते यवागूः / सहस्रं धारयति चैत्रो मैत्राय, उत्तमो धनस्वामी पूर्व परस्य ऋणदाता, ऋणग्राहकस्त्वधमणः / प्रभृत्यन्यार्थदिकशब्दबहिरारादितरैः / 2 / 2 / 75 / . प्रभृत्यर्थैरन्यादिक्शब्दैर्बहिर् आराद् इतर इत्येतैर्युक्ताद् गौणाद् नाम्नः पञ्चमी स्यात् / कार्तिक्या: प्रभृति / वसन्तादारभ्य / अन्यो विष्णुदत्ताद् जिनदत्तः / भिन्नः शिवदत्ताद् विष्णुदत्तः / ग्रामात् पश्चिमायां दिशि वसति / पूर्वोऽवन्त्या गोनर्दः / बहिर्दामाद् वटः / आराद् ग्रामात् क्षेत्रम् / इतरश्चैत्रात् / गुणादस्त्रियां नवा / 2 / 2 / 77 / हेतुभूताद् गुणवाचिनः स्त्रीलिङ्गे वर्तमानाद् गौणाद् नाम्नः पञ्चमी वा स्यात् / जाड्याद् जाडयेन वा बद्धः / प्रज्ञायाः प्रज्ञया वा मुक्तः /