________________ (122) अधिपूर्वाणां शीङ्-स्थाऽऽसधातूनामाधारः कर्म वा स्यात् / अधिशेते अधितिष्ठति अध्यास्ते वा स्वर्ग स्वर्गे वा देवः / वाऽभिनिविशः। 2 / 2 / 22 / ___अभिनीत्येतत्समुदायपूर्वस्य विश्वातोराधारः कर्म वा स्यात / ग्राममभिनिविशते / 'व्यवस्थितविभाषाश्रयणात् क्वचिन्न' निःश्रेयसि अभिनिविशते / .. सहार्थे / 2 / 2 / 45 / सहार्थः- तुल्ययोगो विद्यमानता च, तत्र गम्यमाने गौणाद् नाम्नस्तृतीया स्यात् / पुत्रेण सहागतः पिता। शिष्येण सार्धमागतो गुरुः / नयनाभ्यां साकं श्लक्ष्णा दन्ताः / शिष्यैः सहावश्यक करोति गुरुः / दामः सम्पदानेऽधम्य आत्मने च / 2 / 2 / 12 / सम्पूर्वाद दाम्धातोरधर्म्यरूपे सम्प्रदाने वर्तमानाद् गौणाद् नाम्नस्तृतीया स्यात्, तत्संनियोगे च दाम आत्मनेपदं स्यात / दास्या सम्प्रयच्छते कामुकः / धर्ये तु भार्यायै सम्प्रयच्छति / ___ कृतायैः / 2 / 2 / 47 / निषेधार्थककृतादिभिर्योगे गौणाद् नाम्नस्तृतीया स्यात् / कृतं तेन / अलं प्रसङ्गेन / किं गतेन / शक्तार्थवषड्नमः स्वस्तिस्वाहास्वधाभिः / 2 / 2 / 68 /