________________ (121) सापीश्वराधिपतिदायादसाक्षिपतिभूप्रसूतैः / 2 / 2 / 98 / एभिर्योगे गौणाद् नाम्नः षष्ठी सप्तमी च स्यात् / गवां गोषु वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतः। पृथग्-नाना पञ्चमी च / 2 / 2 / 113 / आभ्यां योगे गौणाद् नाम्नः पञ्चमी तृतीया च स्यात् / पृषम् जिनदत्ताद् जिनदत्तेन वा। नाना जिनपालाद् जिनपालेन वा। विना ते तृतीया च / 2 / 2 / 115 / विनायोगे ते द्वितीया-पन्चम्यौ तृतीया च स्यात् / विना धर्म धर्माद् धर्मेण वा कुतः सुखम् / ...... ऋते द्वितीया च / 2 / 2 / 114 / . ऋते वर्जनार्थकमव्ययम्, तद्योगे गौणाद् नाम्नो द्वितीया फचमी च स्याताम् / ऋते पुण्यं निर्धनत्वम् / ऋते सम्यग्दर्शनज्ञानं-चारित्रेभ्यो न मुक्तिः। उपान्वध्याङ्-वसः / 2 / 2 / 21 / उप अनु अधि आङ् एभियुक्तस्य वसतेराधारः कर्मसञ्जः स्यात् / उपवसति धर्मपालो ग्रामम् / एवमनुवसति, अधिवसति, आवसति.। अधेः शीङ्-स्थाऽऽस आधारः।२।२।२०।