________________ (120) अधिकरणकारकेऽर्थे वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् / तच्च षड्विधम्-औपश्लेषिकं वैषयिकमभिव्यापकं सामीप्यकं नैमित्तिकमौपचारिकं च / तत्रैकदेशमात्रसंयोग उपश्लेषस्तत्र भवमौपश्लेषिकम्- खट्वायां शेते, कटे आस्ते। अनन्यत्रभावो विषयस्तस्मै प्रभवति वैषयिकम्- भुवि मनुष्याः, दिवि वैमानिकाः सन्ति / ययोराधाराधेययोः सर्वावयवसंयोगस्तदभिव्यापकम्- तिलेषु तैलम्, दनि घृतम् / आधेयसन्निधिमात्रं सामीप्यकम्- गङ्गायां घोषः, वटे गावः / निमित्तमेव नैमित्तिकम्- शरदि पुप्प्यन्ति वनानि / उपचारः प्रयोजनं यस्य तदौपचारिकम्- मम मुष्टिमध्ये राजाऽस्ति, अगुल्या अग्रे करिणां शतम् / . यद्भावो भावलक्षणम् / 2 / 2 / 106 / यस्य क्रिययाऽन्या क्रिया लक्ष्यते ज्ञायते वा ततः सप्तमी स्यात् / गोषु दुह्यमानासु जिनदत्तो गतः / देवे वर्षति श्राद्धः समागतः। सप्तमी चाविभागे निर्धारणे / 2 / 2 / 109 / जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् वर्तमानाद् गौणाद् नाम्नः सप्तमी वा स्याद्, अविभागे अवयवावयविनोः कथञ्चिदैक्ये शब्दाद् गम्यमाने सति। नृणां नृषु वा क्षत्रियाः शूराः / गवां गोषु वा कृष्णा बहुक्षीराः / गच्छतां गच्छत्सु वा धावनक्रियाकर्ता शीघ्रतरः।