________________ (119) / अपायो विश्लेषो विभागो वा तत्र योऽवधिश्चलत्वेनाचलत्वेन वा विवक्षितः स अपादानसन्जकः स्याद , अथवा सावधिक गमनं तत्र यदवधिभूतम् अपायेनानधिष्ठितं तत्कारकमपादानं स्यात् / / प्रामादायाति / धावतोऽश्वात् पतति इति कायिकोऽपायः / बुद्धिजन्मापायः- अधर्माद् जुगुप्सते विरमति वा, धर्मात् प्रमाद्यति, चौरेभ्यो बिभेति, यवेभ्यो गां रक्षति निवारयति वा, उपाध्यायादन्तर्धत्ते / पञ्चम्यपादाने / 2 / 2 / 69 / / / अपादाने वर्तमानात् कारकात् पञ्चमी स्यात् / अरण्यादागच्छति / चौरेभ्यो रक्षति / कुण्डाद् निष्काशयति / शेषे / 2 / 2 / 81 / .... कर्मादिभ्योऽन्यः स्वस्वामिभावादिसम्बन्धः शेषः, तस्मिन् वर्तमानाद् गौणाद् नाम्नः षष्ठी स्यात् / राज्ञः पुरुषः / पित्रोरेतत् पूजनम् / गुरूणां वचनं पथ्यम् / कर्मादिकारकाणामपि सम्बन्धमात्रविवक्षया षष्ठी भवत्येवः माषाणामश्नीयात् , सुभाषितस्य शिक्षते, सतां गतमित्यादौ सतामपि कर्मादीनामविवक्षा / क्रियाश्रयस्याधारोऽधिकरणम् / 2 / 2 / 30 / क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारः स अधिकरणसन्जकः स्यात् / सप्तम्यधिकरणे / 2 / 2 / 95 /